Shree Amogha Shiv Kavach | अमोघ शिव कवच | ಅಮೋಘ ಶಿವಕವಚಮ್

Shree Amogha Shiv kavach | अमोघ शिव कवच in Hindi, English, and Kannada.

Shree Amogha Shiv Kavach

अमोघ शिव कवच

श्रीगणेशाय नमः

विनियोगः

ॐ अस्य श्रीशिवकवचस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः ।
श्रीसदाशिवरुद्रो देवता । ह्रीं शक्तिः ।
रां कीलकम् । श्रीं ह्रीं क्लीं बीजम् ।
श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोगः ॥


कर-न्यासः

ॐ नमो भगवते ज्वलज्ज्वलमालिने ॐ ह्लां सर्वशक्तिधाम्ने ईशानात्मने अङ्गुष्ठाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वलमालिने ॐ नम्रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वलमालिने ॐ मं रुं अनादिशक्तिधाम्ने अघोरात्मने मध्यमाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वलमालिने ॐ शीं रैं स्वतंत्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वलमालिने ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने कनिष्ठिकाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वलमालिने ॐ यां रः अनादिशक्तिधाम्ने सर्वात्मने करतलकरपृष्ठाभ्यां नमः ॥


ध्यानम्

वज्रदंष्ट्रं त्रिनयनं कालकण्ठमरिन्दमम् ।
सहस्रकरमत्युग्रं वन्दे शम्भुमुपासकम् ॥ १ ॥


ऋषभ उवाच

अथ परं सर्वपुराणगुह्यं निषेषपापौघहरं च पवित्रम् ।
जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवं कवचं हिताय ते ॥ २ ॥

नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् ।
वक्ष्ये शिवमहम् वर्म सर्वरक्षकर्मृणाम् ॥ ३ ॥

शुचौ देशे समासीनः यथावत्काल्पितासनः ।
जितेन्द्रियः जितप्राणश्चिन्तयेदशिवमव्ययम् ॥ ४ ॥

हृत्पुण्डरीकतरसन्निविष्टं श्वेतोजसा व्याप्तनभोवकाशम् ।
अतीन्द्रियं सूक्ष्ममनन्तताध्यं ध्यानपरोऽनन्दमयं महेशम् ॥ ५ ॥

ध्यानविधूताखिलकर्मबन्धश्चरं चितानन्दनिमग्नचित्तः ।
शुद्धाक्षरन्याससमाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥ ६ ॥

मां पातु देवोऽखिलदेवात्मा संसारकूपे पतितं गम्भीरे ।
तन्नाम दिव्यं वरमन्त्रबीजं धुनोतु मे सर्वमघं हृदिस्थम् ॥ ७ ॥

सर्वत्र मां रक्षतु विश्वमूर्तिः ज्योतिर्मयानन्दघनश्चिदात्मा ।
अणोरणीयानुरुषाकतिर्यः स ईश्वरः पातु भयादशेषात् ॥ ८ ॥

यो भूः स्वरूपेण बिभर्ति विश्वं पयत्स भूमेर्गिरिशोऽष्टमूर्तिः ।
योऽपां स्वरूपेण नृणां करोति संजीवनं सोऽवतु मां जलेभ्यः ॥ ९ ॥

कल्पान्तकोटे भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः ।
स कालरुद्रोऽवतु मां दवाग्नेः वात्यादिभीतेरखिलाच्च तापात् ॥ १० ॥

प्रदीप्तविद्युत्कनकाभभासो विद्यावरोऽभीतिकरः कराभ्याम् ।
खड्गोद्धृतः तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितो रक्षतु मामजस्रम् ॥ ११ ॥

खड्गाङ्कुशपाशशूलकपाल-ढक्काक्षगुणान्वितधारणः सः ।
चतुर्मुखो नीलरुचिः त्रिनेत्रः पायादघोरो दिशि दक्षिणास्याम् ॥ १२ ॥

कुण्डेन्दुनीलस्फटिकाभभासो वेदीक्षमालावरदोऽभयाङ्कः ।
त्र्यक्षश्चतुर्वक्त्र उरःप्रभाभूः सद्योजातोऽव्यात्तु मामप्रतिच्याम् ॥ १३ ॥

वराक्षमालाभयताङ्कहस्तः सरोजकिञ्जल्लसमानवर्णः ।
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ॥ १४ ॥

वेदाभयाङ्कुशपाशाङ्ककपाल- ढक्काक्षशूलानि धरः स्फुरन्ति ।
सितद्युतिः पञ्चमुखोऽवताद्व्यां ईशान आत्मा परमः प्रकाशः ॥ १५ ॥

मूर्धानमव्याद्मम चन्द्रमौलिर्भालं ममात्यद्भुतभालनॆत्रः ।
नेत्रे मम द्वौ भगनेत्रहर्यौ नासां सदा रक्षतु विश्वनाथः ॥ १६ ॥

पातु श्रुती मे श्रुतिगीतकीर्तिः कपालमाव्याद्सततं कपाली ।
वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ॥ १७ ॥

कण्ठं गिरिशोऽवतु नीलकण्ठः पाणीद्वयं पातु पिनाकपाणिः ।
दोर्मूलमव्याद्मम धर्मवाहुः वक्षःस्थलं दक्षमखातकोऽव्यात् ॥ १८ ॥

मनोदरं पातु गिरिन्द्रधावो मध्यं ममाव्यादमृतान्तकारी ।
हेरम्बताता मम पातु नाभिं पायात्कटी धूर्जटिरीश्वरः मे ॥ १९ ॥

ऊरूद्वयं पातु कुबेरमित्रे जानुद्वयं मे जगदीश्वराव्यात् ।
जङ्घायुगं पुंगवकेतख्यातः पादौ ममाव्यात्सुरवन्द्यपादः ॥ २० ॥

महेश्वरः पातु दिनेऽद्यमेऽमं मामध्यमेऽवतु वामदेवः ।
त्रिलोचनः पातु तृतीयमेऽह्नो वृषध्वजः पातु दिनान्त्यमेऽहम् ॥ २१ ॥

पायान्निशायां शशिशेखरः मां गङ्गाधरो रक्षतु मां निशीथे ।
गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकाले ॥ २२ ॥

अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिः स्थितं माम् ।
तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् ॥ २३ ॥

तिष्ठन्तमव्याद्भुवनैकनाथः पायाद्यजन्तं प्रथमाधिनाथः ।
वेदान्तवेद्योऽवतु मां निषण्णं मामव्ययः पातु शिवः शयनम् ॥ २४ ॥

मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयेऽणिः ।
आरण्यवासे महाप्रवासे पायान्मृगव्याध उदारशक्तिः ॥ २५ ॥

कल्पान्तकोट्युपपत्तुप्रकोप- स्फुटत्सहस्राचलिताण्डकोशः ।
घोरारिसैन्यादरणात्समस्तात् महाभयाद्रक्षतु वीरभद्रः ॥ २६ ॥

पत्त्यश्वरत्नाङ्गघटावरूथ- सहस्रलक्षायुतकोटिभीभ्रमम् ।
अक्षौहिणीं शतमत्सैन्यभूपां छिन्द्यन्मृडो घोरकुठारधार्यः ॥ २७ ॥

निहन्तु दस्यून् प्रलयानलार्चिः ज्वलत्त्रिशूलं त्रिपुरान्तकस्य ।
शार्दूलसिंहर्क्षवृकादिहिंस्रान् सन्त्रासयत्वीशधरः पिनाकी ॥ २८ ॥

दुःस्वप्नदुःशकुनदुर्गतिदौर्मनस्य- दुर्भिक्षदुर्व्यसनदुःसहदुःखदाश्च ।
उत्पाततापविषभीतिमसद्ग्रहार्ति- व्याधींश्च नाशयतु मे जगदन्धकारी ॥ २९ ॥

ॐ नमो भगवते सदाशिवाय
सकलतत्त्वात्मकाय सर्वमन्त्रस्वरूपाय
सर्वयन्त्राधिष्ठिताय सर्वतन्त्रस्वरूपाय
सर्वतत्त्वविधुराय ब्रह्मरुद्रावतारिणे
नीलकण्ठाय पार्वतीमनोहरप्रियाय
सोमसूर्याग्निनेत्राय भस्मोद्धूलितविग्रहाय
महामणिमुकुटधराय मणिकेयभूषणाय
सृष्टिस्थित्यन्तप्रलयकालरुद्रावताराय
दक्षयज्ञध्वंसकाय महाकालभेदनाय
मूलाधारैकानलाय तत्त्वतीताय गङ्गाधराय
सर्वदेवाधिदेवाय षडाश्रयाय वेदान्तसाराय
त्रिवर्गसाधनाय अनन्तकोटिब्रह्माण्डनायकाय
अनन्तवैश्वानराय शङ्खकर्कोटकाङ्कुलिकपद्ममहापद्म-
इत्यष्टमहानागकुलभूषणाय प्रणवस्वरूपाय चिदाकाशाय
आकाशदिक्स्वरूपिणे ग्रहणक्षत्रमालिने
सकलकालाङ्करहिताय सकललोकैककर्त्रे
सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे
सकललोकैकगुह्यवे सकललोकैकसाक्षिणे
सकलनिगमगुह्याय सकलवेदान्तपारगाय
सकललोकैकवरप्रदाय सकललोकैकाश्चर्यकाय
शशाङ्कशेखराय शाश्वतनिजवसने
निर्भासाय निर्मलाय निरलोभाय
निर्मदाय निरचिन्ताय निरहङ्काराय
निरङ्कुशाय निष्कलङ्काय निर्गुणाय
निष्कामाय निरुपलवाय निरवद्याय
निरन्तराय निष्कारणाय नाट्यकाय
निःप्रपञ्चाय निःसङ्गाय निर्द्वन्द्वाय
निराधाराय निरागाय निष्क्रोधाय
निर्मलाय निष्पापाय निर्भयाय
निर्विकल्पाय निर्भेदाय निष्क्रियाय
नितुल्याय निःसङ्शयाय निरञ्जनाय
निरूपमाव्ययाय नित्यशुद्धबुद्धपरिपूर्णसच्चिदानन्दद्वयाय
परमशान्तस्वरूपाय तेजोरूपाय तेजोमयाय
जय जय रुद्र महरुद्र भद्रावतार महाभैरव
कालभैरव कालान्तभैरव कपालमालाधर
खट्वाङ्गखड्गचर्मपाशाङ्कुशधनुरशूलचापबाणगदाशक्तिभिण्डिपालतोमर
मुषलमुद्गरपाशपरिघभूषण्डीशतघ्नीचक्राद्यायुधभैरव
प्रलम्बदंष्ट्रकरालवदन विकटटण्टस्फुरद्ब्रह्माण्डमण्डल
नागेन्द्रकुण्डल नागेन्द्रहार नागेन्द्रवल्ली नागेन्द्रचर्मधर
मृत्युञ्जय त्र्यम्बक पूर्णटटाक विशालविश्वरूप विरूपाक्ष
विश्वेश्वर वृषवाहन विश्वभूषण विश्वतोमुख सर्वतो रक्ष रक्ष मां
ज्वल ज्वल महामृत्युञ्जय मृत्युभयं नाशय नाशय
चौरभयं उत्सादय उत्सादय विषसर्पभयं शमय शमय
चोरान्मारय मारय मांसं नुच्चटय उच्छटय त्रिशूलेन विदारय
कुठारेण भिन्द्धि भिन्द्धि खड्गेन छिन्धि छिन्धि
खट्वाङ्गेन विपोथय विपोथय मुषलेन निष्पेषय निष्पेषय
वणैः संत्रासय संत्रासय रक्षांसि भिषजां भिषजां
शेषभूतनीं निद्राय व्याकुञ्चय भूतगणान्सन्त्रासय संत्रासय
मामभ्यध्रुतं कुरु कुरु वितस्तं ममाश्वासयाश्वासय
नृकं महाभयं मामुद्धर्षय संजीवय संजीवय
क्षुत्तृड्भ्यां मामप्याप्याय दुःखातुरं मामानन्दय
आनन्दय शिवकवचेन मामाच्छादयाच्छादय
मृत्युञ्जय त्र्यम्बक सदाशिव नमस्ते नमस्ते नमस्ते ॥

ऋषभ उवाच –

इत्येतत्कवचं शैवं वरदं व्याहृतं मया ।
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् ॥ ३० ॥

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् ।
न तस्य जायते कापि भयं शम्भोरनुग्रहात् ॥ ३१ ॥

क्षीणायुः प्राप्यमृत्युर्वा महारोगातुरोऽपि वा ।
सद्यः सुखमवाप्नोति दीर्घमायुः च विन्दति ॥ ३२ ॥

सर्वदारिद्र्यशमनं सुमङ्गल्यविवर्धनम् ।
यो धत्ते कवचं शैवं स देवैः अपि पूज्यते ॥ ३३ ॥

महापातकसङ्घातैर्मुच्यते चोपपातकैः ।
देहान्ते मुक्तिमाप्नोति शिववर्मभवतः ॥ ३४ ॥

त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम् ।
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥ ३५ ॥

सूत उवाच

इत्युक्त्वा ऋषभो योगी तस्मै पार्थिवसूनवे ।
ददौ शङ्खं महाघोरं खड्गं चारिणिशूदनम् ॥ ३६ ॥

पुनश्च भस्मना सम्यक् तदङ्गं परितोऽस्पृशत् ।
गजानां शतसाहस्रं द्विगुणं बलमद्यदात् ॥ ३७ ॥

भस्मप्रभावात् सम्प्राप्तबलैश्वर्यधृतिः स्मृतः ।
स राजा पित्राह्नश्शुभे शरदर्क इव श्रिया ॥ ३८ ॥

तमभ्यर्च्य पुनः प्राह स योगी नृपनन्दनम् ।
एष खड्गो मया दत्तः स्तोत्रमन्त्रानुभावितः ॥ ३९ ॥

शीतधार्म्यमिमं खड्गं यस्मै दर्शयसे स्पुटम् ।
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ॥ ४० ॥

अस्य शङ्खस्य निर्घोषं ये शृण्वन्ति द्विषोऽहिताः ।
ते मूर्छिताः पतिष्यन्ति न्यस्तशस्त्राः विचेतसः ॥ ४१ ॥

खड्गशङ्खविमौ दिव्यौ प्रसैन्यनिविनाशिनौ ।
आत्मसैन्यस्य पक्षाणां शौर्यतेजोविवर्धनौ ॥ ४२ ॥

एतयोश्च प्रभावेण शैवेन कवचेन च ।
द्विषत्सहस्रनागानां बलेनापि महात्मना ॥ ४३ ॥

भस्मधारणसमर्थ्याच्छत्रुसैन्यं विजेष्यसि ।
प्राप्य सिंहासनं पित्र्यं गोप्स्यसि पृथिवीं इमाम् ॥ ४४ ॥

इति भद्रायुषं सम्यक्दानुशास्य समाहितः ।
ताभ्यां पूजितः सोऽथ योगी स्वैरगतिर्गतः ॥ ४५ ॥

Listen this Amogha Shiv kavacham on Youtube | Credit Goes To : Rajendra Kumar Vyas Palji

ಅಮೋಘ ಶಿವಕವಚಮ್

ಶ್ರೀಗಣೇಶಾಯ ನಮಃ

ವಿನಿಯೋಗಃ

ಓಂ ಅಸ್ಯ ಶ್ರೀಶಿವಕವಚಸ್ತೋತ್ರಮಂತ್ರಸ್ಯ ಬ್ರಹ್ಮಾ ಋಷಿಃ । ಅನುಷ್ಟುಪ್ ಛಂದಃ ।
ಶ್ರೀಸದಾಶಿವರುದ್ರೋ ದೇವತಾ । ಹ್ರೀಂ ಶಕ್ತಿಃ ।
ರಾಂ ಕೀಲಕಮ್ । ಶ್ರೀಂ ಹ್ರೀಂ ಕ್ಲೀಂ ಬಿಜಮ್ ।
ಶ್ರೀಸದಾಶಿವಪ್ರೀತ್ಯರ್ಥೇ ಶಿವಕವಚಸ್ತೋತ್ರಜಪೇ ವಿನಿಯೋಗಃ ॥


ಕರ-ನ್ಯಾಸಃ

ಓಂ ನಮೋ ಭಗವತೇ ಜ್ವಲಜ್ಜ್ವಲಮಾಲಿನೇ ಓಂ ಹ್ಲಾಂ ಸರ್ವಶಕ್ತಿಧಾಮ್ನೇ ಈಶಾನಾತ್ಮನೇ ಅಂಗುಷ್ಠಾಭ್ಯಾಂ ನಮಃ ।
ಓಂ ನಮೋ ಭಗವತೇ ಜ್ವಲಜ್ಜ್ವಲಮಾಲಿನೇ ಓಂ ನಮ್ರೀಂ ನಿತ್ಯತೃಪ್ತಿಧಾಮ್ನೇ ತತ್ಪುರುಷಾತ್ಮನೇ ತರ್ಜನೀಭ್ಯಾಂ ನಮಃ ।
ಓಂ ನಮೋ ಭಗವತೇ ಜ್ವಲಜ್ಜ್ವಲಮಾಲಿನೇ ಓಂ ಮಂ ರೂಂ ಅನಾದಿಶಕ್ತಿಧಾಮ್ನೇ ಅಘೋರಾತ್ಮನೇ ಮಧ್ಯಮಾಭ್ಯಾಂ ನಮಃ ।
ಓಂ ನಮೋ ಭಗವತೇ ಜ್ವಲಜ್ಜ್ವಲಮಾಲಿನೇ ಓಂ ಶೀಂ ರೈಂ ಸ್ವತಂತ್ರಶಕ್ತಿಧಾಮ್ನೇ ವಾಮದೇವಾತ್ಮನೇ ಅನಾಮಿಕಾಭ್ಯಾಂ ನಮಃ ।
ಓಂ ನಮೋ ಭಗವತೇ ಜ್ವಲಜ್ಜ್ವಲಮಾಲಿನೇ ಓಂ ವಾಂ ರೌಂ ಅಲუპ್ತಶಕ್ತಿಧಾಮ್ನೇ ಸದ್ಯೋಜಾತಾತ್ಮನೇ ಕನಿಷ್ಠಿಕಾಭ್ಯಾಂ ನಮಃ ।
ಓಂ ನಮೋ ಭಗವತೇ ಜ್ವಲಜ್ಜ್ವಲಮಾಲಿನೇ ಓಂ ಯಾಂ ರಃ ಅನಾದಿಶಕ್ತಿಧಾಮ್ನೇ ಸರ್ವಾತ್ಮನೇ ಕರತಲಕರಪೃಷ್ಠಾಭ್ಯಾಂ ನಮಃ ॥


ಧ್ಯಾನಮ್

ವಜ್ರದಂಷ್ಟ್ರಂ ತ್ರಿನಯನಂ ಕಾಲಕಂಠಮರಿಂದಮಮ್ ।
ಸಹಸ್ರಕರಮತ್ಯುಗ್ರಂ ವಂದೇ ಶಂಭುಮുപಾಸಕಮ್ ॥ ೧ ॥


ಋಷಭ ಉವಾಚ

ಅಥ ಪರಂ ಸರ್ವಪುರಾಣಗುಹ್ಯಂ ನಿರ್ವಿಷೇಪಾಪೌಘಹರಂ ಚ ಪವಿತ್ರಮ್ ।
ಜಯಪ್ರದಂ ಸರ್ವವಿಪತ್ಪ್ರಮೋಚನಂ ವಕ್ಷ್ಯಾಮಿ ಶೈवं ಕವಚಂ ಹಿತಾಯ ತೇ ॥ ೨ ॥

ನಮಸ್ಕೃತ್ಯ ಮಹಾದೇವಂ ವಿಶ್ವವ್ಯಾಪಿನಮೀಶ್ವರಮ್ ।
ವಕ್ಷ್ಯೇ ಶಿವಮಹಮ್ ವರ್ಮ ಸರ್ವರಕ್ಷಕರ್ಮೃಣಾಮ್ ॥ ೩ ॥

ಶುಚೌ ದೇಶೇ ಸಮಾಸೀನಃ ಯಥಾವತ್ ಕಾಲ್ಪಿತಾಸನಃ ।
ಜಿತೇಂದ್ರಿಯಃ ಜಿತಪ್ರಾಣಶ್ಚಿಂತನೇದಶಿವಮವ್ಯಯಮ್ ॥ ೪ ॥

ಹೃತ್ಪುಂಡರೀಕತರಸನ್ನಿವಿಷ್ಟಂ ಶ್ವೇತೋಜಸಾ ವ್ಯಾಪ್ತನಭೋವಕಾಶಮ್ ।
ಅತೀಂದ್ರಿಯಂ ಸೂಕ್ಷ್ಮಮನಂತತಾಧ್ಯಂ ಧ್ಯಾನಪರೋʼನಂದಮಯಂ ಮಹೇಶಮ್ ॥ ೫ ॥

ಧ್ಯಾನವಿಧೂತಾಖಿಲಕರ್ಮಬಂಧಶ್ಚರಂ ಚಿತಾನಂದನಿಮಗ್ನಚಿತ್ತಃ ।
ಶುದ್ಧಾಕ್ಷರನ್ಯಾಸಸಮಾಹಿತಾತ್ಮಾ ಶೈವೇನ ಕೂರ್ಯಾತ್ಕವಚೇನ ರಕ್ಷಾಮ್ ॥ ೬ ॥

ಮಾಂ ಪಾತು ದೇವೋʼಖಿಲದೇವಾತ್ಮಾ ಸಂಸಾರಕೂಪೇ ಪತಿತಂ ಗಂಭೀರೆ ।
ತನ್ನಾಮ ದಿವ್ಯಂ ವರ್ಮಂತ್ರಬೀಜಂ ಧುನೋತು ಮೇ ಸರ್ವಮಘಂ ಹೃತಿಸ್ತಮ್ ॥ ೭ ॥

ಸರ್ವತ್ರ ಮಾಂ ರಕ್ಷತು ವಿಶ್ವಮೂರ್ತಿಃ ಜ್ಯೋತಿರ್ಮಯಾನಂದಘನಶ್ಚಿದಾತ್ಮಾ ।
ಅಣೋರ್ಣೀಯಾನುರೂಷಾಕತಿರ್ಯಃ ಸ ಐಶ್ವರಃ ಪಾತು ಭಯಾದಶೇಷಾತ್ ॥ ೮ ॥

ಯೋ ಭೂಃ ಸ್ವರೂಪೇಣ ಬಿಭರ್ತಿ ವಿಶ್ವಂ ಪಯತ್ಸ್ ಭೂಮೇರ್ಗಿರಿಶೋʼಷ್ಟಮೂರ್ತಿಃ ।
ಯೋʼಪಾಂ ಸ್ವರೂಪೇಣ ನೃಣಾಂ करोತಿ ಸಂಜೀವನಂ ಸೋʼವತು ಮಾಂ ಜಲೆಭ್ಯಃ ॥ ೯ ॥

ಕಲ್ಪಾಂತರಕೋಟೇ ಭುವನಾನಿ ದಗ್ಧ್ವಾ ಸರ್ವಾಣಿ ಯೋ ನೃತ್ಯತಿ ಭೂರಿಲೀಲಃ ।
ಸ ಕಾಲರೂದ್ರೋʼವತು ಮಾಂ ದವಾಗ್ನೇವಾತ್ಯಾದಿಭೀತೆರ್ ಖಿಲಾಚ್ಚ ತಾಪಾತ್ ॥ ೧೦ ॥

ಪ್ರದೀಪ್ತವಿದ್ಯುತ್ ಕನಕಾಭಭಾಸೋ ವಿದ್ಯಾವರೋʼಭೀತಿಕರಃ ಕರಾಭ್ಯಾಮ್ ।
ಖಡ್ಗೋದ್ದುೃತಃ ತತ್ಪುರುಷಸ್ತ್ರಿನೇತ್ರಃ ಪ್ರಾಚ್ಯಾಂ ಸ್ಥಿತೋ ರಕ್ಷತು ಮಾಮಜಸ್ರಮ್ ॥ ೧೧ ॥

ಖಡ್ಗಾಂಕುಶಪಾಶಶೂಲಕಪಾಲ-ಢಕ್ಕಾಕ್ಷಗುಣಾನ್ವಿತಧಾರಣಃ ಸಃ ।
ಚತುರ್ಮುಖೋ ನೀಲರೂಚಿಃ ತ್ರಿನೇತ್ರಃ ಪಾಯಾದಘೋರೋ ದಿಶಿ ದಕ್ಷಿಣಾಸ್ಯಾಮ್ ॥ ೧೨ ॥

ಕುಂಡೇಂದುನೀಲಸ್ಫಟಿಕಾಭಭಾಸೋ ವೇದೀಕ್ಷಮಾಲಾವರದಾಭಯಾಂಕಃ ।
ತ್ರ್ಯಕ್ಷಚತುರ್ವಕ್ತ್ರ ಉರಃಪ್ರಭಾಭೂಃ ಸದ್ಯೋಜಾತೋʼವ್ಯಾತ್ತು ಮಾಮಪ್ರತಿಚ್ಯಾಮ್ ॥ ೧೩ ॥

ವರಾಕ್ಷಮಾಲಾಭಯತಾಂಕಹಸ್ತಃ ಸರೋಜಕಿಞ್ಜಲ್ಲಸಮಾನವರ್ಣಃ ।
ತ್ರಿಲೋಚನಶ್ಚಾರುಚತುರ್ಮುಖೋ ಮಾಂ ಪಾಯಾದುದೀಚ್ಯಾಂ ದಿಶಿ ವಾಮದೇವಃ ॥ ೧೪ ॥

ವೇದಾಭಯಾಂಕುಶಪಾಶಾಂಕಕಪಾಲ-ಢಕ್ಕಾಕ್ಷಶೂಲಾನಿ ಧರಃ ಸ್ಫುರಂತಿ ।
ಸಿತಾದ್ಯುತಿಃ ಪಂಚಮುಖೋʼವತಾದ್ವ್ಯಾಂ ಈಶಾನಾತ್ಮಾ ಪರಮಃ ಪ್ರಕಾಶಃ ॥ ೧೫ ॥

ಮೂರ್ಧಾನಮವ್ಯಾದ್ಮಮ ಚಂದ್ರಮೌಲಿರ್ಭಾಲಂ ಮಮಾತ್ಯದ್ಭುತಭಾಲನೇತ್ರಃ ।
ನೆತ್ರೇ ಮಮ ದ್ವೌ ಭಗನೆತ್ರಹರ್ಯೌ ನಾಸಾಂ ಸದಾ ರಕ್ಷತು ವಿಶ್ವನಾಥಃ ॥ ೧೬ ॥

ಪಾತು ಶ್ರುತಿ ಮೇ ಶ್ರುತಿಗೀತಕೀರ್ತಿಃ ಕಪಾಲಮಾವ್ಯಾದ್ಸತತಂ ಕಪಾಲೀ ।
ವಕ್ತ್ರಂ ಸದಾ ರಕ್ಷತು ಪಂಚವಕ್ತ್ರೋ ಜಿಹ್ವಾಂ ಸದಾ ರಕ್ಷತು ವೇದಜಿಹ್ವಃ ॥ ೧೭ ॥

ಕಣ್ಠಂ ಗಿರಿಶೋʼವತು ನೀಲಕಂಠಃ ಪಾಣೀದ್ವಯಂ ಪಾತು ಪಿನಾಕಪಾಣಿಃ ।
ದೋರ್ಮೂಲಮವ್ಯಾದ್ಮಮ ಧರ್ಮವಾಹುಃ ವಕ್ಷಃಸ್ಥಲಂ ದಕ್ಷಿಣಖಾತಕೋʼವ್ಯಾತ್ ॥ ೧೮ ॥

ಮನೋದರಂ ಪಾತು ಗಿರಿಂದ್ರಧಾವೋ ಮಧ್ಯಂ ಮಮಾವ್ಯಾದಮೃತಾಂತಕಾರೀ ।
ಹೆರಂಬತಾತಾ ಮಾಂ ಪಾತು ನಾಭಿಂ ಪಾಯಾತ್ಕಟಿ ಧೂರ್ಜಟೀರಿಶ್ವರಃ ಮೇ ॥ ೧೯ ॥

ಊರುದ್ವಯಂ ಪಾತು ಕುಬೇರಮಿತ್ರೇ ಜಾನುದ್ವಯಂ ಮೇ ಜಗದೀಶವಾರಾವ್ಯಾತ್ ।
ಜಂಗ್ಘಾಯುಂಗ ಪುಂಗವಕೇತಖ್ಯಾತಃ ಪಾದೌ ಮಮಾವ್ಯಾತ್ಸುರವಂದ್ಯಪಾದಃ ॥ ೨೦ ॥

ತ್ರಿಲೋಚನಃ ಪಾತು ತೃತೀಯಮೇʼಹ್ನೋ ವೃಷಧ್ವಜಃ ಪಾತು ದಿನಾಂತ್ಯಮೇʼಹಮ್ ॥ ೨೧ ॥
ಪಾಯಾನ್ನಿಶಾಯಾಂ ಶಶಿಶೇಖರಃ ಮಾಂ ಗಂಗಾಧರೋ ರಕ್ಷತು ಮಾಂ ನಿಶೀತೇ ।
ಗೌರಿಪತಿಃ ಪಾತು ನಿಶಾವಸಾನೇ ಮೃತ್ಯುಂಜಯೋ ರಕ್ಷತು ಸರ್ವಕಾಲೇ ॥ ೨೨ ॥

ಅಂತಃಸ್ಥಿತಂ ರಕ್ಷತು ಶಂಕರೋ ಮಾಂ ಸ್ಥಾಣುಃ ಸದಾ ಪಾತು ಬಹಿಃ ಸ್ಥಿತಂ ಮಾಂ ।
ತದಂತರೇ ಪಾತು ಪತಿಃ ಪಶೂನಾಂ ಸದಾಶಿವೋ ರಕ್ಷತು ಮಾಂ ಸಮಂತಾತ್ ॥ ೨೩ ॥

ತಿಷ್ಠಂತಮವ್ಯಾದ್ಭುವನೈಕನಾಥಃ ಪಾಯಾದ್ಯಜನ್ತಂ ಪ್ರಥಮಾಧಿನಾಥಃ ।
ವೇದಾಂತವೇದ್ಯೋʼವತು ಮಾಂ ನಿವಾಣ್ನಂ ಮಾಮವ್ಯಯಃ ಪಾತು ಶಿವಃ ಶಯನಮ್ ॥ ೨೪ ॥

ಮಾರ್ಗೇಷು ಮಾಂ ರಕ್ಷತು ನೀಲಕಣ್ಠಃ ಶೈಲಾದಿದುರ್ಗೇಷು ಪುರತ್ರಯೇʼಣಿಃ ।
ಆರಣ್ಯವಾಸೇ ಮಹಾಪ್ರವಾಸೇ ಪಾಯಾನ್ ಮೃಗವ್ಯಾಧ ಉದಾರಶಕ್ತಿಃ ॥ ೨೫ ॥

ಕಲ್ಪಾಂತರಕೋಟ್ಯುಪಪತ್ತುಪ್ರಕೋಪ- ಸ್ಫುಟತ್ಸಹಸ್ರಾಚಲಿತಾಂಡಕೋಶಃ ।
ಘೋರಾರಿಸೈನ್ಯಾದರಣಾತ್ ಸಮಸ್ತಾತ್ ಮಹಾಭಯಾದ್ ರಕ್ಷತು ವೀರಭದ್ರಃ ॥ ೨೬ ॥

ಪಟ್ಟ್ಯಶ್ವರತ್ನಾಂಗಘಟಾವರೂಥ- ಸಹಸ್ರಲಕ್ಷಾಯುತಕೋಟಿಭೀಭ್ರಮ್ ।
ಅಕ್ಷೌಹಿಣೀಂ ಶತಮತ್ಸೈನ್ಯಭೂಪಾಂ ಛಿಂದ್ಯನ್ ಮೃಡೋ ಘೋರಕುಠಾರಧಾರ್ಯಃ ॥ ೨೭ ॥

ನಿಹಂತು ದಸ್ಯೂನ್ ಪ್ರಲಯನಲಾರ್ಚಿಃ ಜ್ವಲತ್ತ್ರಿಶೂಲಂ ತ್ರಿಪುರಾಂತಕಸ್ಯ ।
ಶಾರ್ದೂಲಸಿಂಹರ್ಕ್ಷವೃಕಾದಿಹಿಂಸ್ರಾನ್ ಸಂತ್ರಾಸಯತ್ವೀಶಧರಃ ಪಿನಾಕೀ ॥ ೨೮ ॥

ದುಃಸ್ವಪ್ನದುಃಶಕುನದುರ್ಗತಿದೌರ್ಮನಸ್ಯ- ದುರ್ಭಿಕ್ಷದುರ್ವ್ಯಸನದುಃಸಹದುಃಖದಾಶ್ಚ ।
ಉತ್ಪಾತತಾಪವಿಷಭೀತಿಮಸದ್ಗ್ರಹಾರ್ತಿವ್ಯಾಧೀಂಶ್ಚ ನಾಶಯತು ಮೇ ಜಗದಂಧಕಾರೀ ॥ ೨೯ ॥

ॐ ನಮೋ ಭಗವತೇ ಸದಾಶಿವಾಯ
ಸಕಲತತ್ತ್ವಾತ್ಮಕಾಯ ಸರ್ವಮಂತ್ರಸ್ವರೂಪಾಯ ಸರ್ವಯಂತ್ರಾಧಿಷ್ಠಿತಾಯ ಸರ್ವತಂತ್ರಸ್ವರೂಪಾಯ
ಸರ್ವತತ್ತ್ವವಿಧುರಾಯ ಬ್ರಹ್ಮರೂದ್ರಾವತಾರಿಣೇ ನೀಲಕಣ್ಠಾಯ ಪಾರ್ವತೀಮನೋಹರಪ್ರಿಯಾಯ
ಸೋಮಸೂರ್ಯಾಗ್ನಿನೇತ್ರಾಯ ಭಸ್ಮೋದ್ಧೂಲಿತವಿಗ್ರಹಾಯ ಮಹಾಮಣಿಮುಕुटಧರಾಯ ಮಣಿಕೇಯಭೂಷಣಾಯ
ಸೃಷ್ಟಿಸ್ಥಿತ್ಯಂತಪ್ರಲಯಕಾಲರೂದ್ರಾವತಾರಾಯ ದಕ್ಷಯಜ್ಞಧ್ವಂಸಕಾಯ ಮಹಾಕಾಲಭೇದನಾಯ
ಮೂಲಾಧಾರೈಕಾನಲಾಯ ತತ್ತ್ವತೀತಾಯ ಗಂಗಾಧರಾಯ ಸರ್ವದೇವಾಧಿದೇವಾಯ ಷಡಾಶ್ರಯಾಯ ವೇದಾಂತಸಾರಾಯ
ತ್ರಿವರ್ಗಸಾಧನಾಯ ಅನಂತಕೋಟಿಬ್ರಹ್ಮಾಂಡನಾಯಕಾಯ ಅನಂತವೈಶ್ವಾನರಾಯ ಶಂಖಕರ್ಕೋಟಕಾಂಗುಲಿಕಪದ್ಮಮಹಾಪದ್ಮ- ಇತ್ಯಷ್ಟಮಹಾನಾಗಕುಲಭೂಷಣಾಯ ಪ್ರಣವಸ್ವರೂಪಾಯ ಚಿದಾಕಾಶಾಯ
ಆಕಾಶದಿಕ್ಸ್ವರೂಪಿಣೇ ಗ್ರಹಣಕ್ಷತ್ರಮಾಲಿನೇ ಸಕಲಕಾಲಾಂಕರಹಿತಾಯ ಸಕಲಲೋಕೈಕಕರ್ತ್ರೇ
ಸಕಲಲೋಕೈಕಭರ್ತ್ರೇ ಸಕಲಲೋಕೈಕಸಂಹರ್ತ್ರೇ ಸಕಲಲೋಕೈಕಗುಹ್ಯವೇ ಸಕಲಲೋಕೈಕಸಾಕ್ಷಿಣೇ
ಸಕಲನಿಗಮಗುಹ್ಯಾಯ ಸಕಲವೇದಾಂತಪಾರಗಾಯ ಸಕಲಲೋಕೈಕವರಪ್ರದಾಯ ಸಕಲಲೋಕೈಕಾಶ್ಚರ್ಯಕಾಯ
ಶಶಾಂಕಶೇಖರಾಯ ಶಾಶ್ವತನಿಜವಸನೇ ನಿರ್ಭಾಸಾಯ ನಿರ್ಮಲಾಯ ನಿರಲೋಭಾಯ ನಿರ್ಮದಾಯ ನಿರಚಿಂತಾಯ ನಿರಹಂಕಾರಾಯ
ನಿರಂಕುಶಾಯ ನಿಷ್ಕಲಂಕಾಯ ನಿರ್ಗුණಾಯ ನಿಷ್ಕಾಮಾಯ ನಿರುಪಲವಾಯ ನಿರವದ್ಯಾಯ ನಿರಂತರಾಯ ನಿಷ್ಕಾರಣಾಯ ನಾಟ್ಯಕಾಯ
ನಿಃಪ್ರಪಂಚಾಯ ನಿಃಸಂಗಾಯ ನಿರ್ದ್ವಂದ್ವಾಯ ನಿರಾಧಾರಾಯ ನಿರಾಗಾಯ ನಿಷ್ಕ್ರೋಧಾಯ ನಿರ್ಮಲಾಯ ನಿಷ್ಪಾಪಾಯ ನಿರ್ಭಯಾಯ
ನಿರ್ವಿಕಲ್ಪಾಯ ನಿರ್ಭೇದಾಯ ನಿಷ್ಕ್ರಿಯಾಯ ನಿತೂಲ್ಯಾಯ ನಿಃಸಂಶಯಾಯ ನಿರಂಜನಾಯ ನಿರೂಪಮಾವ್ಯಯಾಯ ನಿತ್ಯಶುದ್ಧಬುದ್ಧಪರಿಪೂರ್ಣಸಚ್ಚಿದಾನಂದದ್ವಯಾಯ
ಪರಮಶಾಂತಸ್ವರೂಪಾಯ ತೇಜೋರೂಪಾಯ ತೇಜೋಮಯಾಯ
ಜಯ ಜಯ ರೂದ್ರ ಮಹರೂದ್ರ ಭದ್ರಾವತಾರ ಮಹಾಭೈರವ
ಕಾಲಭೈರವ ಕಾಲಾಂತಭೈರವ ಕಪಾಲಮಾಲಾಧರ
ಖಟ್ವಾಂಗಖಡ್ಗಚರ್ಮಪಾಶಾಂಗುಶಧನುರ್‌ಶೂಲಚಾಪಬಾಣಗದಾಶಕ್ತಿಭಿಣ್ಡಿಪಾಲತೋಮರ್
ಮುಷಲಮುಡ್ಗರಪಾಶಪರಿಘಭೂಷಂಡೀಶತಘ್ನೀಚಕ್ರಾದ್ಯಾಯುಧಭೈರವ
ಪ್ರಲಂಬದಂಷ್ಟ್ರಕರಾಲವದನ ವಿಅಕಟಟಂಟ್ಸ್ಫುರದ್ ಬ್ರಹ್ಮಾಂಡಮಂಡಲ
ನಾಗೇಂದ್ರಕುಂಡಲ ನಾಗೇಂದ್ರಹಾರ ನಾಗೇಂದ್ರವಳ್ಳಿ ನಾಗೇಂದ್ರಚರ್ಮಧರ
ಮೃತ್ಯುಂಜಯ ತ್ರ್ಯಂಬಕ ಪೂರ್ಣಟಟಾಕ ವಿಶಾಲವಿಶ್ವರೂಪ ವಿರೂಪಾಕ್ಷ
ವಿಶ್ವೇಶ್ವರ ವೃಷವಹಾನ ವಿಶ್ವಭೂಷಣ ವಿಶ್ವತೋಮುಖ ಸರ್ವತೋ ರಕ್ಷ ರಕ್ಷ ಮಾಂ
ಜ್ವಲ ಜ್ವಲ ಮಹಾಮೃತ್ಯುಂಜಯ ಮೃತ್ಯುಭಯಂ ನಾಶಯ ನಾಶಯ
ಚೌರಭಯಂ ಉತ್ಸಾದಯ ಉತ್ಸಾದಯ ವಿಷಸರ್ಪಭಯಂ ಶಮಯ ಶಮಯ
ಚೋರಾನ್ಮಾರಯ ಮಾರಯ ಮಾಂಸಂ ನುಚ್ಚಟಯ ಉಚ್ಚಟಯ ತ್ರಿಶೂಲೇನ ವಿದಾರಯ
ಕುಠಾರೆಣ ಭಿಂಧ್ಧಿ ಭಿಂಧ್ಧಿ ಖಡ್ಗೇನ ಚಿಂಧ್ಧಿ ಚಿಂಧ್ಧಿ
ಖಟ್ವಾಂಗೇನ ವಿಪೋಥಯ ವಿಪೋಥಯ ಮುಷಲೇನ ನಿಷ್ಪೇಷಯ ನಿಷ್ಪೇಷಯ
ವಣೈಃ ಸಂತ್ರಾಸಯ ಸಂತ್ರಾಸಯ ರಕ್ಷಾನ್ಸಿ ಭಿಷಜಾಂ ಭಿಷಜಾಂ
ಶೇಷಭೂತನೀಂ ನಿದ್ರಾಯ ವ್ಯಾಕುಂಚಯ ಭೂತಗಣಾನ್ಸಂತ್ರಾಸಯ ಸಂತ್ರಾಸಯ
ಮಾಮಭ್ಯಧೃತಂ ಕುರು ಕುರು ವಿತಸ್ತಂ ಮಮಾಶ್ವಾಸಯಾಶ್ವಾಸಯ
ನೃಕಂ ಮಹಾಭಯಂ ಮಾಮುದ್ಧರ್ಷಯ ಸಂಜೀವಯ ಸಂಜೀವಯ
ಕ್ಷುತ್ತೃಡ್ಭ್ಯಾಂ ಮಾಮಪ್ಯಾಪ್ಯಾಯ ದುಃಖಾತುರಂ ಮಾಮಾನಂದಯ
ಆನಂದಯ ಶಿವಕವಚೇನ ಮಾಮಾಚ್ಚಾದಯಾಚ್ಚಾದಯ
ಮೃತ್ಯುಂಜಯ ತ್ರ್ಯಂಬಕ ಸದಾಶಿವ ನಮಸ್ತೆ ನಮಸ್ತೆ ನಮಸ್ತೆ ॥

ಋಷಭ ಉವಾಚ –
ಇತ್ಯೇತತ್ಕವಚಂ ಶೈवं ವರದಂ ವ್ಯಾಹೃತಂ ಮಯಾ ।
ಸರ್ವಬಾಧಾಪ್ರಶಮನಂ ರಹಸ್ಯಂ ಸರ್ವದೆಹಿನಾಮ್ ॥ ೩೦ ॥

ಯಃ ಸದಾ ಧಾರಯೇನ್ ಮರ್ಥ್ಯಃ ಶೈवं ಕವಚಮುತ್ತರಮ್ ।
ನ ತಸ್ಯ ಜಾಯತೇ ಕಾಪಿ ಭಯಂ ಶಂಭೋರನುಗ್ರಹಾತ್ ॥ ೩೧ ॥

ಕ್ಷೀನಾಯುಃ ಪ್ರಾಪ್ಯಮೃತ್ಯುರ್ವಾ ಮಹಾರೋಗಾತುರೋʼಪಿ ವಾ ।
ಸದ್ಯಃ ಸుఖಮವಾಪ್ನೋತಿ ದೀರ್ಘಮಾಯುಃ ಚ ವಿನ್ದತಿ ॥ ೩೨ ॥

ಸರ್ವದಾರಿದ್ರ್ಯಶಮನಂ ಸುಮಂಗಳ್ಯವಿವರ್ಧನಮ್ ।
ಯೋ ಧತ್ತೇ ಕವಚಂ ಶೈवं ಸ ದೇವೈಃ ಅಪಿ ಪೂಜ್ಯತೇ ॥ ೩೩ ॥

ಮಹಾಪಾತಕಸಂಘೈರ್ಮುಚ್ಯತೇ ಚೋಪಪಾತಕೈಃ ।
ದೇಹಾಂತೇ ಮುಕ್ತಿಮಾಪ್ನೋತಿ ಶಿವವರ್ಮಭವತಃ ॥ ೩೪ ॥

ತ್ವಮಪಿ ಶ್ರದ್ಧಯಾ ವತ್ಸ ಶೈवं ಕವಚಮುತ್ತರಮ್ ।
ಧಾರಯಸ್ವ ಮಯಾ ದತ್ತಂ ಸದ್ಯಃ ಶ್ರೇಯೋ ಹ್ಯವಾಪ್ಸ್ಯಸಿ ॥ ೩೫ ॥

ಸೂತ ಉವಾಚ
ಇತ್ಯುಕ್ತ್ವಾ ಋಷಭೋ ಯೋಗೀ ತಸ್ಮೈ ಪಾರ್ಥಿವಸುನವೇ ।
ದದೌ ಶಂಖಂ ಮಹಾಘೋರಂ ಖಡ್ಗಂ ಚಾರಿಣಿಶೂದನಮ್ ॥ ೩೬ ॥

ಪುನಶ್ಚ ಭಸ್ಮನಾ ಸಮ್ಯಕ್ ತದಂಗಂ ಪರಿತೋʼಸ್ಪೃಶತ್ ।
ಗಜಾನಾಂ ಶತಸಾಹಸ್ರಂ ದ್ವಿಗುಣಂ ಬಲಮದ್ಯದಾತ್ ॥ ೩೭ ॥

ಭಸ್ಮಪ್ರಭಾವಾತ್ ಸಂಪ್ರಾಪ್ತಬಲೈಶ್ವರ್ಯಧೃತಿಃ ಸ್ಮೃತಃ ।
ಸ ರಾಜ ಪಿತ್ರಾಹ್ನಶ್ಶುಭೇ ಶರದರ್ಕ ಇವ ಶ್ರಿಯಾ ॥ ೩೮ ॥

ತಮಭ್ಯರ್ಚ್ಯ ಪುನಃ ಪ್ರಾಹ ಸ ಯೋಗೀ ನೃಪನಂದನಮ್ ।
ಏಷ ಖಡ್ಗೋ ಮಯಾ ದತ್ತಃ ಸ್ಟೋತ್ರಮಂತ್ರಾನುಭಾವಿತಃ ॥ ೩೯ ॥

ಶೀತಧಾರ್ಮ್ಯಮಿಮಂ ಖಡ್ಗಂ ಯಸ್ಮೈ ಪ್ರದರ್ಶಯಸೆ ಸ್ಪುಟಮ್ ।
ಸ ಸದ್ಯೋ ಮ್ರಿಯತೇ ಶತ್ರುಃ ಸಾಕ್ಷಾನ್ ಮೃತ್ಯುರಪಿ ಸ್ವಯಮ್ ॥ ೪೦ ॥

ಅಸ್ಯ ಶಂಖಸ್ಯ ನಿರ್ಘೋಷಂ ಯೇ ಶೃಣ್ವಂತಿ ದ್ವಿಷೋʼಹಿತಾಃ ।
ತೆ ಮೂರ್ಚಿತಾಃ ಪತಿಷ್ಯಂತಿ ನ್ಯಸ್ತಶಸ್ತ್ರಾಃ ವಿಚೇತಸಃ ॥ ೪೧ ॥

ಖಡ್ಗಶಂಖವಿಮೌ ದಿವ್ಯೌ ಪ್ರಸೈನ್ಯನಿವಿನಾಶಿನೌ ।
ಆತ್ಮಸೈನ್ಯಾಸ್ಯ ಪಕ್ಷಾಣಾಂ ಶೌರ್ಯತೇಜೋವಿವರ್ಧನೌ ॥ ೪೨ ॥

ಏತಯೋಶ್ಚ ಪ್ರಭಾವೇಣ ಶೈವೇನ ಕವಚೇನ ಚ ।
ದ್ವಿಷತ್ಸಹಸ್ರನಾಗಾನಾಂ ಬಲೇನಾಪಿ ಮಹಾತ್ಮನಾ ॥ ೪೩ ॥

ಭಸ್ಮಧಾರಣಸಮರ್ಥ್ಯಾಚ್ಛತ್ರುಸೈನ್ಯಾಂ ವಿಜೇಷ್ಯಸಿ ।
ಪ್ರಾಪ್ಯ ಸಿಂಹಾಸನಂ ಪಿತ್ರ್ಯಂ ಗೋಪ್ಸ್ಯಸಿ ಪೃಥಿವीं ಇಮಾಮ್ ॥ ೪೪ ॥

ಇತಿ ಭದ್ರಾಯುಷಂ ಸಮ್ಯಕ್‌ದಾನುಶಾಸ್ಯ ಸಮಾಹಿತಃ ।
ತಾಭ್ಯಾಂ ಪೂಜಿತಃ ಸೋʼಥ ಯೋಗೀ ಸ್ವೈರಗತಿಗರ್ತಃ ॥ ೪೫ ॥

Kali kawacha | काली कवच Lyrics in Kannada, English and in Hindi.

Shree Amogha Shiv kavach

Shree Ganeshaya Namah ॥
Viniyogaḥ
Om asya Shree Shivakavachastotramantrasya Brahma Rishiḥ । Anushtup Chhandaḥ ।
Shreesadashivarudro Devata । Hreem Shaktiḥ ।
Ram Keelakam । Shreem Hreem Kleem Bijam ।
Shreesadashivapreetyarthe Shivakavachastotrajape Viniyogaḥ ॥


Kara-Nyasah
Om Namo Bhagavate Jwalajjwalamaline Om Hlaam Sarvashaktidhamne Ishanatmane Angushthabhyam Namah ।
Om Namo Bhagavate Jwalajjwalamaline Om Namreem Nityatriptidhamne Tatpurushatmane Tarjanibhyam Namah ।
Om Namo Bhagavate Jwalajjwalamaline Om Mam Room Anadishaktidhamne Aghoratmane Madhyamabhyam Namah ।
Om Namo Bhagavate Jwalajjwalamaline Om Sheem Raem Swatantrashaktidhamne Vamadevatmane Anamikabhyam Namah ।
Om Namo Bhagavate Jwalajjwalamaline Om Vaam Roum Aluptashaktidhamne Sadyojatatmane Kanishtikabhyam Namah ।
Om Namo Bhagavate Jwalajjwalamaline Om Yaam Rah Anadishaktidhamne Sarvatmane Karatalakaraprishthabhyam Namah ॥


Dhyanam
Vajradashttram Trinayanam Kalakanthamarindamam ।
Sahasrakaramatyugram Vande Shambhumupaskam ॥ 1 ॥


Rishabha Uvacha
Atha Param Sarvapuranaguhyam Nirvishepapaughaharam cha Pavitram ।
Jayapradam Sarvavipatpramochanam Vaksyami Shaivam Kavacham Hitaya Te ॥ 2 ॥
Namaskrutya Mahadevam Vishvavyapinameshvaram ।
Vakshye Shivamaham Varm Sarvarakshakarmrnnam ॥ 3 ॥
Shuchau Deshe Samasinaḥ Yathavat Kalpitasanah ।
Jitendriyah Jitapranashcha Chintayedashivamavyayam ॥ 4 ॥
Hritpundarikatarasannivishtam Shvetojasaa Vyaptanabhovaakasham ।
Atindriyam Sookshmamanantatadhyam Dhyanaparo’nandamaya Mahesham ॥ 5 ॥
Dhyanavidhutakhilakarmabandhashcharam Chitaanandanimagnachittah ।
Shuddhaksharanayasasamahitatma Shaivena Kuryatkavachena Raksham ॥ 6 ॥
Mam Patu Devo’khiladevathma Samsarakoope Patitam Gambhire ।
Tannama Divyam Varmantrabeejam Dhunotu Me Sarvamagham Hrudistam ॥ 7 ॥
Sarvatra Mam Rakshatu Vishvamurtih Jyotirmayanandaghanaschidatma ।
Anorniyanurushaakatirayah Sa Aishvarah Patu Bhayadasheshat ॥ 8 ॥
Yo Bhooh Swaroopena Bibhartti Vishvam Payats Bhumer Girisho’ashtamurtih ।
Yo’pam Swaroopena Nrnam Karoti Sanjeevanam So’avatu Mam Jalebhyah ॥ 9 ॥
Kalpantarkote Bhuvanani Dagdhva Sarvani Yo Nrtyati Bhurililah ।
Sa Kalarudro’vatu Mam Davagnevatyadibhiter Khilachcha Tapat ॥ 10 ॥
Pradeeptavidyut Kanakabhbhaso Vidyavaro’bheetikarah Karabhyam ।
Khadgo’ddrutah Tatpurushastrinetrah Praachyam Sthito Rakshatu Mamajasram ॥ 11 ॥
Khadgankushapashashoolakapala-dhakkaakshagunaanvitadharannah Sah ।
Chaturmukho Neelaroocih Trinetrah Paayadaghoro Dishi Dakshinasyaam ॥ 12 ॥
Kundenduneelasphatikabhbhaso Vedikshamalavaradabhayaankah ।
Tryakshachatvarktra Urahprabhabhooh Sadyojato’vyattu Mamapratichyam ॥ 13 ॥

Varakshamalabhayatankahastah Sarojakinjallasamanavarnah ।
Trilochanashcharuchaturmukho Mam Payadudichyam Dishi Vamadevah ॥ 14 ॥
Vedabhayangkushapashankakapala- Dhakkakshashoolani Dharah Sphuranti ।
Sitadyutih Panchamukho’vatadvyam Ishan Atma Paramah Prakashah ॥ 15 ॥
Murdhanamavyadmam Cha Chandramoulir Bhalam Mamatyadbhutabhalanetrah ।
Netre Mam Dvau Bhaganetrahyo Nasam Sada Rakshatu Vishwanathah ॥ 16 ॥
Patu Shruti Me Shrutigitakirtih Kapalamavyadsatatam Kapali ।
Vaktram Sada Rakshatu Panchavaktro Jihvam Sada Rakshatu Vedajihvah ॥ 17 ॥
Kantham Girisho’vatu Neelakanthah Panidvayam Patu Pinakapaniḥ ।
Dormoolamavyadmam Dharmawahuh Vakshasthalam Dakshamakhatakohavyat ॥ 18 ॥
Manodaram Patu Girindradhavo Madhyam Mamavyadamritantakari ।
Herambtata Mam Patu Nabhim Payat Kati Dhurjatirishvarah Me ॥ 19 ॥
Uroodvayam Patu Kuberamitre Janudvayam Me Jagadishvaravyat ।
Janghayugam Pungavaketakhyatah Padau Mamavyatsuravandyapadah ॥ 20 ॥
Maheshvarah Patu Dine’adyame’mam Mamadhyame’vatu Vamadevah ।
Trilochanah Patu Trithiyame’ahno Vrishadhwajah Patu Dinantyame’ham ॥ 21 ॥
Payannishayam Shashishekharah Mam Gangadharoh Rakshatu Mam Nishithe ।
Gauripatih Patu Nishavasane Mrityunjayoh Rakshatu Sarvakale ॥ 22 ॥
Antahsthitham Rakshatu Shankarah Mam Sthanuh Sada Patu Bahih Sthitam Mam ।
Tadantare Patu Patih Pashoonam Sadashivo Rakshatu Mam Samantat ॥ 23 ॥
Tishthantamavyadbhuwanekanathah Payadyajantam Prathamadhinathah ।
Vedantavedyo’vatu Mam Nishannam Mamavyayah Patu Shivah Shayanam ॥ 24 ॥
Margeshu Mam Rakshatu Neelakanthah Shailadidurgeshu Puratraye’nih ।
Aaranyavase Mahapravase Payan Mrigavyadha Udaarashaktih ॥ 25 ॥
Kalpantakotyupapattuprokoap- Sphuttsahasrachalitandkoshah ।
Ghorarisainyadaranatsamastat Mahabhayad Rakshatu Veerabhadrah ॥ 26 ॥
Pattyashwaratnangaghatavarooth- Sahasralakshayutakotibhibhramam ।
Akshauhinim Shatamtsainyabhoopam Chhindyanmrido Ghorakutharadharyah ॥ 27 ॥
Nihantu Dasyun Pralayanalarchih Jwalattrishulam Tripurantakasya ।
Shardoolsingharkshavrukadihimsran Santrasayattvishadharah Pinaki ॥ 28 ॥
Duhsvapnaduhshakunadurgtidaurmanasya- Durbhikshadurvyasanaduhsahduhkadashch ।
Utpatatapavishabhitimasadgraharhti- Vyadheenscha Nashayatu Me Jagadandhakari ॥ 29 ॥

Om Namo Bhagavate Sadashivaya
Sakaltattvatmakaya Sarvamantrasvarupaya
Sarvayantradhisthitaya Sarvatantrasvarupaya
Sarvatattvavidhuraya Brahmarudravatarine
Neelakanthaya Parvatimanoharapriyaya
Somasuryagninetraaya Bhasmodhoolitavigrahaya
Mahamanimukutadharaya Manikayabhushanaya
Srishtisthityantapralayakalarudravataraaya
Dakshayajñadhvamsakaya Mahakalabhedanaya
Muladharikanalaya Tattvatitaya Gangadharaya
Sarvadevadhidevaya Shadashrayaya Vedantasaraya
Trivargasadhanaya Anantakotibrahmandanayakaya
Anantavaishvanaraya ShankhakarkotakangkulikapadmaMahapadma-
Ityashtamahanagakulabhushanaya Pranavasvarupaya Chidakashaya
Akashadiksvarupine Grahankshatramaline
Sakalkalankarahitaya Sakallokaikakartre
Sakallokaikabhartre Sakallokaikasaṁhartre
Sakallokaikaguhyave Sakallokaikasakshine
Sakalanigamguhyaya Sakalvedantaparagaya
Sakallokaikavarapradaya Sakallokaikashcharyakaya
Shashankashekharaaya Shashvatanijavasane
Nirbhasaya Nirmalaya Niralobhaya
Nirmadaya Nirachintaya Nirahankaraya
Nirankushaya Nishkalankaya Nirgunaya
Nishkamaya Nirupalavaya Niravadyaya
Nirantaraya Nishkaranaya Natyakaya
Nihprapanchaya Nisangaya Nirdvandvaya
Nirahdaraya Niragaya Nishkrodhaya
Nirmalaya Nishpapaya Nirbhayaya
Nirvikalpaya Nirbhedaya Nishkriyaya
Nitulyaya Nisangshayaya Niranjanaya
Nirupamavyayaya Nityashuddhabuddhaparipurnasaccidanandadvayaya
Paramashantasvarupaya Tejorupaya Tejomayaya
Jaya Jaya Rudra Maharudra Bhadravatara Mahabhirava
Kalabhirava Kalantabhirava Kapalamaladhara
Khatvangakhadgacharmapashankushadhanurashoolachapabanagadashaktibhindipalatomar
Musalamudgarapashaparighabhushandishataghnichakradyyayudhabhairava
Pralambadanstrakaraalavadana Vikatatanstasphuradbrahmandamandal
Nagendrakundala Nagendrahara NagendravalI Nagendracharmadhar
Mrityunjaya Tryambaka Purnatataka Vishalavishvarupa Virupaksha
Vishweshvara Vrishavahana Vishvabhushan Vishvatomukha Sarvato Raksha Raksha Mam
Jvala Jvala Mahamrityunjaya Mrityubhayam Nashaya Nashaya
Chaurabhayam Utsadaya Utsadaya Vishasarpabhayam Shamay Shamay
Choranmaraya Maraya Mamsam Nuchchataya Ucchataya Trishulena Vidaraya
Kutharena Bhindhi Bhindhi Khadgena Chhindi Chhindi
Khatvangena Vipothaya Vipothaya Mushalena Nishpeshaya Nishpeshaya
Vanaih Santrasaya Santrasaya Rakshansi Bhishajam Bhishajam
Sheshabhootaneem Nidray Vyakuncha Bhutaganansantrasaya Santrasaya
Mamabhyadrutam Kuru Kuru Vitastam Mamashwasayashwasaya
Nrkham Mahabhayam Mamuddarshaya Sanjeevaya Sanjeevaya
Khuttridbhyam Mamapyapyaya Duhkhaturam Mamanandaya
Anandaya Shivakavachena Mamacchadayacchadaya
Mrityunjaya Tryambaka Sadashiva Namaste Namaste Namaste ॥
Rishabha Uvacha –
Ityetatkavacham Shaivam Varadam Vyahrtam Maya ।
Sarvabadhaprashamanam Rahasyam Sarvadehinam ॥ 30 ॥
Yah Sada Dharayen Martyah Shaivam Kavacham Uttamam ।
Na Tasyajayate Kapi Bhayam Shambhoranugrahat ॥ 31 ॥
Kshinayuh Prapyamrityurva Maharogaturapi Va ।
Sadyah Sukhamavapnoti Deerghamayuh Cha Vindati ॥ 32 ॥
Sarvdaridryashamanam Sumangalyavivardhanam ।
Yo Dhatte Kavacham Shaivam Sa Devaih Api Poojyate ॥ 33 ॥
Mahapatakasanghatairmuchyate Chopapatakaih ।
Dehante Muktimapnoti Shivavarmabhavatah ॥ 34 ॥
Tvamapi Shraddhaya Vatsa Shaivam Kavacham Uttamam ।
Dharayasva Maya Dattam Sadyah Shreyo Hyavapsyasi ॥ 35 ॥
Suta Uvacha
Ityuktva Rishabho Yogi Tasmai Parthivasooneve ।
Dadau Shankham Mahaghoram Khadgam Charinishudanam ॥ 36 ॥
Punashcha Bhasmana Samyak Tadangam Parito’Sprishat ।
Gajanan Shatasahasram Dvigunam Balamadyadat ॥ 37 ॥
Bhasmaprabhavat Sampraptabalaiśwaryadhritih Smrutah ।
Sa Raja Pitrahnashshubhe Sharadarka Iva Shriya ॥ 38 ॥
Tamabhyarchy Punah Praha Sa Yogi Nripanandanam ।
Esha Khadgo Maya Dattah Stotramantranubhavitah ॥ 39 ॥
Sheetadharmyamimam Khadgam Yasmai Darshayase Sputam ।
Sa Sadyo Mriyate Shatruh Sakshan Mrityurapi Svayam ॥ 40 ॥
Asya Shankhasya Nirgoshah Ye Shrunvanti Dvisho’Hitaah ।
Te Murchhitah Patishyanti Nyastashastrah Vichetasah ॥ 41 ॥
Khadgashankhavimau Divyau Prasainyanivinashinau ।
Atmasainyasya Pakshanam Shauryatejovivardhanau ॥ 42 ॥
Etayoshcha Prabhavena Shaivena Kavachena Cha ।
Dvishatsahasranagaanam Balenapi Mahatmanah ॥ 43 ॥
Bhasmadharanasamarthyachchatrusainyam Vijeshyasi ।
Prapya Simhasanam Pitryam Gopsyasi Prithivim Imam ॥ 44 ॥
Iti Bhadrayusham Samyakdanushasya Samahitaḥ ।
Tabhyam Poojitaḥ So’tha Yogi Svairagatigartah ॥ 45 ॥

Leave a Comment

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

Scroll to Top